top of page

तुलसीनामषोडशकस्तोत्रम् | Tulasi nama shodashaka stotram

श्रीतुलसीषोडशकनामस्तोत्रं नामावलिश्च 

तुलसी श्रीमहालक्ष्मीः विद्याऽविद्या यशस्विनी ।
धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया ॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः ।
लभते सुतरां भक्तिं अन्ते विष्णुपदं लभेत् ॥

तुलस्यै नमः । श्रीमहालक्ष्म्यै नमः । विद्यायै नमः ।
अविद्यायै नमः । यशस्विन्यै नमः । धर्म्यायै नमः ।
धर्मावनासक्तायै नमः । पद्मिन्यै नमः । श्रियै नमः ।
हरिप्रियायै नमः…
bottom of page