top of page
तुलसीपूजाविधिः (नारदमहादेव संवादः) | Tulasi paja vidhi
तुलसीपूजा १
॥ अथ तुलसी पूजा प्रारंभः ॥
॥ श्रीगणेशाय नमः ॥
॥ अथ तुलसीपूजनं लिख्यते ॥
श्रीमहादेव उवाच ॥
शुभे पक्षे शुभे वारे शुभे ऋक्षे शुभोदये ।
केशवार्थे शुभांशे च रोपयेत्तुलसीं मुनिः ॥ १॥
गृहस्थो गृहमध्ये वा गृहस्थोपवनेपि वा ।
शुचौ देशे तु तुलसीमर्च्चयेद्बुद्धिमान्नरः ॥ २॥
मूले च वेदिकां कृत्वा आलवालसमन्विताम्…bottom of page
