top of page
तुलसीमहिमा २ महादेवप्रोक्ता (बृहद्धर्मपुराणान्तर्गता) | Tulasi mahima 2 Mahadevprokta
तुलसीमहिमा
महादेव उवाच ।
विष् णुप्रीतिं करोत्वेषा तरुर्भूत्वा महीतले ।
शरीरमर्ज्यतामस्याः श्रीविष्णुप्रीतये गणाः ॥ १॥
अस्याः पत्रेण वृन्दायाः पूजितः स्यात् स्वयं हरिः ।
नान्येनेति सुविज्ञेयं मणिमुक्तादिनापि च ॥ २॥
नामास्यास्तुलसीत्यस्तु पवित्रायाः सुपावनम् ।
तकारो मरणं प्रोक्तं तद्योगः स्यादुकारतः ॥ ३॥
मृता लसति चेत्येवं तुलसीत्येव गीयते ।
स्थितः प्रतिदलेष्वस्या मन्त्रो द्वादशवर्णकः ॥ ४॥
अधिष्ठात्री देवतास्यामावां देवीमहेश्वरौ ।
नारायण उपास्योऽस्याः प्रियेयं वैष्णवी मता…bottom of page
