top of page

तुलसीस्तवराजः (ब्रह्मपुराणान्तर्गतः) | Tulasi stavarajah

तुलसीस्तवराजः 


शौनकः --
सूत सूत महाप्राज्ञ सर्वशास्रविशारद ।
ब्रूहि मे स्तवराजं तु तुलस्याः पुण्यवर्धनम् ॥ १॥

श्री सूतः --
साधु साधु महाभाग कृतः प्रश्नस्त्वयाऽनघ ।
तुलस्याः स्तवराजं तु को नु वर्णयितुं क्षमः ॥ २॥

इह लोके परत्रापि ब्रह्मणाऽपि न शक्यते ।
तुलसीकाननं दृष्ट्वा यत्र कुत्रापि वै स्थले ॥ ३॥

स्मरणात्कीर्तनाद् ध्यानात् सर्वपापैः प्रमुच्यते ।
किमुत स्तवराजेन स्तुवतो मुक्तिरस्य वै…
bottom of page