top of page

तुलसीस्तोत्रम् १ (पुण्डरीककृतं जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे) | Tulasi stotram

श्रीतुलसीस्तोत्रम् 

जगद्धात्रि! नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टि स्थित्यन्तकारिणः ॥ १॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥ २॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ ३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥ ४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्…
bottom of page