top of page
तुलसीस्तोत्रम् २ (ब्रह्मवैवर्तपुराणान्तर्गतम् वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च) | Tulasi stotram 2
तुलसीस्तोत्रम् २
श्रीभगवानुवाच ।
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजा म्यहम् ॥ १८॥
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता तां सौभाग्यां भजाम्यहम् ॥ १९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ॥ २०॥
असङ्ख्यानि च विश्वानि पवित्राणि यया सदा ।
तां विश्वपावनीं देवीं विरहेण…bottom of page
