top of page

तुलसी लघुपूजा १ | Tulasi Laghu Puja 01

तुलसीपूजा ३


तुलसी लघुपूजा १

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

श्रीपरमेश्वरप्रीत्यर्थं तुलसीदेवी प्रीत्यर्थं
सर्वारिष्टशान्त्यर्थं सर्वमङ्गलप्राप्त्यर्थं तुलसीपूजां करिष्ये ॥

(अप उपस्पृश्य - पूर्वाङ्गपूजा)

ध्यायामि तुलसीं देर्वीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥

किरीट हार केयूर कुण्डलादिविभूषिताम् ।
धवलांशुकसंयुक्तां पद्मासन निषेदुषीम् ॥

तुलसीं देवीं ध्यायामि ॥

अस्मिन् तुलसी क्षुपे तुलसीं देवीं आवाहयामि ।
विष्णुवल्लभायै नमः - आसनं समर्पयामि ।
सर्वदेवमयायै…
bottom of page