top of page
वृन्दावनद्वादशीव्रतम् अथवा तुलसी विष्णुविवाहविधि (सनत्कुमारसंहितान्तर्गतम् व्रतचूडामणौ) | Vrindavan dvadashi vratam
वृन्दावनद्वादशीव्रतम्
(व्रतचूडामणौ )
तुलसी विष्णुविवाहविधिः
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् ।
पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत् ॥ १॥
वेदवाद्यादिनिर्घोषैः विष्णुमूर्तिं समानयेत् ।
तुलस्या निकटे सा तु स्थाप्या चान्तर्हिता घटैः ॥ २॥
आगच्छ भगवन् देव अर्हयिष्यामि केशव ।
तुभ्यं ददामि तुलसीं सर्वकामप्रदो भव ॥ ३॥
दद्याद् द्विवारमर्घ्यं च पाद्यं विष्टरमेव च ।
ततश्चाचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥ ४॥
पयो दधि…