top of page
उदकशान्ति मन्त्राः | Udakashanti Mantra
उदकशान्ति मन्त्राः सस्वरः
ॐ
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒ध्निया॑ उप॒मा॑स्य॒विष्ठः स॒तश्च॒ योनि॒मस॑त्श्च॒विवः॑ ॥
आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑
प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑
स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒
यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒
…तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ।
नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒…