top of page
ओषधिसूक्तम् माद्ध्यन्दिनानाम् अनुवाकः (माध्यन्दिनसंहितायां द्वादशेऽध्याये षष्ठोनुवाकः) | Oshadhisuktam maddhyandinanam
माद्ध्यन्दिनानामोषध्यनुवाकः
माद्ध्यन्दिनसंहितायां द्वादशेऽद्ध्याये षष्ठोऽनुवाकः ।
आ पञ्चसप्तताया ऋच आ एकोत्तरशततमाम् (७५-१०१) सप्तविंशत्यृचोऽनुवाकः ।
काण्वसंहिताया नातिभिन्नमपि माद्ध्यन्दिनानामुच्चारणवैविध्यदर्शनाय
पृथक् प्रदर्श्यते -
हरिः ओ३म् ॥
सस्वरः
या ओष॑धीः॒ पूर्व्वा॑ जा॒ता दे॒वेब्भ्य॑स्त्रियु॒गं पु॒रा ।
मनै॒ नु ब॒ब्भ्रुणा॑म॒हꣳ श॒तं धामा॑न स॒प्तच॑ ॥…